________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
www. kobatirth.org
अचियत्तमादिवोच्छेयमादि दोसा उ होंत परलिंगे ।
अन्नाए ओहि काले, अ कए गुरुगा य मिच्छत्तं ॥ ३२६७॥
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाते सति परलिङ्गे क्रियमाणे अचियत्तादयोऽप्रीत्यादयो व्युच्छेदादयश्च दोषा भवन्ति । तथाहि-ग्रामेयकास्तत् परलिङ्गं कृतमितरांश्च साधून् दृष्ट्वा अप्रीतिं कुर्वन्ति - 'अहो इमे संयता निःशूका निर्लज्जा मा परिष्ठाप्यो भूदिति परलिङ्गमारोप्याऽपरिष्ठाप्य त्यक्त्वा गताः । १३०७ (A) आदिग्रहणेनाऽऽगाढमिथ्यादृष्टीनां प्रीतिरुपजायते इति परिग्रहः । तत्र च व्युच्छेदादयो दोषाः ।
तथाहि - ते आगाढमिथ्यादृष्टयः प्रीता ब्रुवते - अहो सुन्दरमात्मनैव तैः प्रवचनस्य हीलना कृता, मा एतेषामाहारादीनि प्रयच्छथ, आदिग्रहणान्मा अत्र कोऽपि प्रव्रज्यां प्रतिपद्येत, मा सोऽप्येवंविधामवस्थां प्राप्नुयात् । एते ज्ञातानां दोषाः । अथ अज्ञाताऽयतनां कृत्वा तत् कलेवरमपरिष्ठाप्य व्रजन्ति तर्हि ते यदि क्षिप्रमेव गतास्ततः स पश्चात् कालगतो देवलोके उत्पन्नोऽवधिं प्रयुङ्क्ते ततः स एवं मन्येत 'अहमेतेन लिङ्गेन देवो जातः', एवं मननानन्तरं मिथ्यात्वगमनम् । अत्र काले कृते तेषां गमने प्रायश्चित्तं चत्वारो गुरुकाः । यस्मादेते दोषास्तस्मात् विधिना परिष्ठाप्यः ॥ ३२६७ ॥
सम्प्रति यः कथञ्चन एकाकी जातस्तस्य परिष्ठापनाविधिमाह
For Private And Personal Use Only
गाथा
| ३२६५-३२७१ एकाकिनः
* परिष्ठापनाविधि:
१३०७ (A)