________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३०६ (A)
www. kobatirth.org
विश्राम्यति स तृणानि मात्रकं च वहति । अथ त्रयो जना यदि वा द्वौ तदा यदि रात्रौ निर्भयं तर्हि निद्दोच्चे निर्भये ये यतय उपधिं तच्च कलेवरं वोढुं प्रत्यलाः समर्थास्ते द्वावपि नयन्ति । उपधिं तच्च कलेवरं नयन्तीत्यर्थः । नीत्वा च कलेवरं परिष्ठापयन्ति। अथ बहिरुपकरणस्तेनभयं तदा रात्रावुपकरणं विहायसि विलम्ब्य द्वारं बद्ध्वा परिष्ठाप्य प्रत्यागच्छन्ति । यदि वा सद्दोच्चे सभये रात्रौ तत्कलेवरं स्थापयन्ति स्थापयित्वा बन्धनच्छेदन-जागरणादिकां यतनां कुर्वन्ति ततो दिवसे यदि शक्नुवन्ति तदा उपकरणं गृहीत्वा परिष्ठापयन्ति। अथोपकरणं वोढुं न शक्नुवन्ति तदा शय्यातरादीनां परिनिवेद्य द्वारं स्थयित्वा परिष्ठापयन्ति, परिष्ठाप्य भूयो वसतौ प्रत्यागच्छन्ति ॥ ३२६४ ॥
अह गंतुमणा चेव, तो नयंति ततो च्चिय । ओलोयणमकुव्वंतो, असढो तत्थ सुज्झए ॥ ३२६५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथान्यं ग्रामं ते गन्तुमनसस्तत उपकरणं सह नयन्ति नीत्वा तत् कलेवरं परिष्ठाप्य तत एव परिष्ठापनप्रदेशात् परतोऽन्यं ग्रामं गच्छन्ति । तत्र यदुक्तमधस्तात् कल्पाध्ययने
For Private And Personal Use Only
܀܀܀
गाथा
३२६५-३२७१
एकाकिनः परिष्ठापना
विधि:
| १३०६ (A)