________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀܀
www. kobatirth.org
श्री व्यवहार
सूत्रम्
साधूनामभावे गृहिणस्तं त्यजन्ति, यदि वा गावौ बलीवद 'योत्त्रयित्वा ताभ्यां गृहस्थाः कर्षयन्ति; अथवा मलैः परित्याजयन्ति, यदि वा गृहस्था राजकुले निवेदयन्ति । तत्र पाणैराकर्षणे प्रवचनस्योड्डाहः । यथा- पर्याप्तमीदृशेन धर्मेण यत्रेदृशी अवस्था प्राप्यते । सप्तम एते प्रवचनविराधनारूपा दोषाः । इयं संयमविराधना असंयतैर्नीयमाने षट्कायविराधना। ध्यामना दहनं तस्य कलेवरस्य गृहस्थैः क्रियेत, ततस्तत्रापि षट्कायविराधना, तथा व्याप कुथिते कृमिजालसंसक्ते शुष्के शोषमुपगते द्वीन्द्रियविराधना ॥ ३२६३॥
उद्देशकः
१३०५ (B)
उपसंहारमाह
तम्हा उ विहितं चेव, वोढुं जे जई पच्चला ।
नयंति दो वि निद्दोच्चे, सद्दोच्चे ठावए निसिं ॥ ३२६४॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्मादेते अनन्तरोदिता दोषास्तस्मात् स्तोकैरपि परिष्ठापयितव्यम् । तत्र विधिः प्रागुक्त एव तथा यदि चत्वारस्तदा एको वसतिपालः शेषास्त्रयो विश्रम्य विश्रम्य कलेवरं वहन्ति ।
१. टिप्पण : योक्त्रयित्वा - मु. सं. ॥
For Private And Personal Use Only
गाथा
| ३२५९-३२६४
* परिष्ठापनाविधिः
܀܀
(१३०५ (B)