________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०५९ (B)
मुहरागगमादीहिं, तेसिं नाऊण रागवेरग्गं । नाऊण थिरं ताहे, ससहायं पेसवेंति ततो ॥२४६९॥
त(य)स्य ज्ञातविधिं जिगमिषोः शोभनो मुखरागः, स ज्ञायते स्वजनेषु भावतः प्रतिबद्ध उपसर्गानसहिष्णुश्च, यस्य तु न तथाविधो मुखरागः केवलं विरागः स्पष्टो लक्ष्यते स ज्ञेयो भावतः स्वज्ञातिष्वप्रतिबद्धः सहिष्णुश्चोपसर्गान्। एवं मुखरागादिभिस्तेषां ज्ञातविधिं गन्तुमिच्छतां रागं वैराग्यं च ज्ञात्वा तथा स्थिरम्,उपलक्षणमेतदस्थिरं च ज्ञात्वा ततः स्थिरं भावतः स्वजनेष्वप्रतिबद्धं ससहायं सूरयः प्रेषयन्ति ॥२४६९ ॥ साम्प्रतमल्पश्रुताऽल्पागमपदव्याख्यानार्थमाह
अबहुस्सुतो अगीतो, बाहिरसत्थेहि विरहितो इयरो । तव्विवरीए गच्छे, तारिसगसहायसहितो वा ॥२४७०॥
अल्पश्रुतो नाम अबहुश्रुतः स चाऽगीतार्थ उच्यत ॥ इतरः अल्पागमो यो बाह्यशास्त्रै- ' विरहित एतादृशो न गच्छेत् स्वजनविधौ किन्तु तद्विपरीतो बहुश्रुतो बह्वागमश्च। यदि वा | स्वयमल्पश्रुतोऽल्पागमो वा तादृशसहायसहितो बहुश्रुतबह्वागमसहायसहितो गच्छेत् ॥ २४७० ॥
गाथा २४६४-२४७० ज्ञातविधिगमनयोग्यस्य लक्षणानि
१०५९ (B)
For Private And Personal Use Only