________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ उद्देशकः १०६० (A)
एतदेव सविशेषमाहधम्मकहीवादीहि य, तवस्सिगीएहि संपरिवुडो उ । नेमित्तिएहि य तहा, गच्छे सो अप्पछट्ठो उ ॥२४७१॥
धर्मकथिभिर्द्वित्रिप्रभृतिभिर्वादिभिः वादकुशलैः तपस्विभिः षष्ठोष्टमादितपःकारिभिः गीताथैः सूत्रार्थतदुभयनिष्णातैः नैमित्तिकैश्च संपरिवृतो गच्छेत् अथ धर्मकथा[थ्या]दयो बहवो न सन्ति ततो जघन्यतोऽप्येकैकधर्मकथ्यादिसहाय आत्मषष्ठो व्रजेत् ॥२४७१॥
तत्र प्रवेशविधिमाहपत्ताण वेल पविसण, अहपुण पत्ता पगे हवेजाहि । तं बाहिं ठावे. वसहिं गिण्हंति अन्नत्थ ॥२४७२॥
यदि वेलायां भिक्षावेलायां स्थान प्राप्तास्तर्हि समकालमेव सर्वेषां प्रवेशनम्, अथ पुनः प्रगे प्रभात एव प्राप्ता भवेयुस्तदा तं स्वजनवन्तं बहिः स्थापयित्वा वसतिमन्यत्र गृह्णन्ति ॥२४७२ ॥ १. गच्छति सो. ला. ॥
गाथा २४७१-२४७७ ज्ञाताविधि
गमने विधिः
१०६० (A)
For Private And Personal Use Only