________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १३०२ (A)
सिलायलं पसत्थं तु, जत्थ वुत्थादि फासुयं । झामत्थंडिलमादीव, बिंबादीणं समीवे वा ॥ ३२५४॥ दा.३। शिलातलं शिलातलरूपं यत् प्रशस्तं स्थण्डिलं तत्र परिष्ठापयन्ति। अथवा यत्र गोकुलमजा वा उषिता आदिशब्दादन्यथा यत् प्रासुकं तत्र, यदि वा ध्यामिते अग्निना दग्धे प्रदेशे, आदिशब्दात् कारीषादिप्रदेशरूपे वा स्थण्डिले, यदि वा बिम्बादीनां वृक्षाणां समीपे यत्र महान् सार्थ उषितस्तत्र परिष्ठापयन्ति ॥ ३२५४ ॥
गतं स्थण्डिलद्वारमधुना उस्सण्णद्वारमाहउस्सन्नतिन्निकप्पा उ, होति खेत्तेसु केसुई । अथंडिला अदिसासुं, वा ते वि जाणिज्ज पन्नवं ॥ ३२५५ ॥ दा. ४।
केषुचित्क्षेत्रेषु उस्सन्नेन बाहुल्येन बहुकालाचीर्णाः कल्पा भवन्ति। किंविशिष्टा? इत्याहअस्थण्डिलाः, तथाहि- केषुचित् ग्रामेषु नगरेषु वा एवंरूपा मर्यादा यथा एतावति प्रदेशे मृतकं त्यक्तव्यं नान्यत्र। तत्र च स्थण्डिलाभावः। ततस्तत्र धर्मास्तिकायप्रदेशनिश्रामुपकल्प्य
गाथा ३२५४-३२५८
पारिष्ठाप निकाविधिः
१३०२ (A)
For Private And Personal Use Only