________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः १३०१ (B)
षष्ठं श्मशान इति द्वारं, तत्र च व्यवहारो वक्तव्यः । एष द्वारगाथासक्षेपार्थः ॥ ३२५२ ॥
साम्प्रतमेनामेव विवरीतुकामो रात्रिद्वारं किल प्रागेव सप्रपञ्चमुक्तम्, अतो दिग्द्वारस्य वक्तव्यशेषमाह
लब्भमाणे वा पढमाए असतीए वाघाते वा । ताहे अन्नाए वि, दिसाए पेहेज जयणाए ॥ ३२५३॥ दा.२ ।
लभ्यमानाया, गाथायां पुंस्त्वं प्राकृतत्वात्, प्रथमाया अपरदक्षिणस्या अभावे व्याघाते वा सति ततस्तस्याः प्रथमाया दिशोऽन्यस्यां दिशि द्वितीयस्यां स्थण्डिलं यतनया प्रेक्षेत। तस्या अपि लभ्यमानाया अभावे व्याघाते वा सति तृतीयस्याम्। एवं यावच्चरमायामपि, न च प्रागुक्तो दोषः तीर्थकराऽऽज्ञानुपालनपुरस्सरं यतनया प्रवृत्तेः। यदि पुनर्द्वितीयस्यां सत्यां तृतीयस्यां परिष्ठापयति तर्हि यो द्वितीयस्यां दोष उक्तः स प्रसजति, चतुर्थ्यां तृतीयोक्तः, एवमुत्तरोत्तरदिक्ष्वपि भावनीयम् ॥३२५३॥
गतं दिकद्वारमधना स्थण्डिलद्वारमाह
गाथा ३२४७-३२५३ परिष्ठापनायां दिगद्वारम्
१३०१ (B)
For Private And Personal Use Only