________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः
१३०१ (A)
पंचमियाए असंखड, छट्ठीए गणस्स भेयणं नियमा । सत्तमीए गेलनं, मरणं पुण अट्ठमी बेंति ॥ ३२५१॥
गाथाद्वयमपि व्याख्यातार्थत्वात् सुगमम्। नवरं पउरणपाण पढमा इत्यत्र प्राकृतत्वात् सप्तम्या लोपः। ततः प्रथमायामिति द्रष्टव्यम् । अट्ठमीति अष्टम्यामिति ॥ ३२५० ॥ ३२५१॥
साम्प्रतमुक्ताऽनुक्तद्वारसङ्ग्रहार्थमाहरत्ति दिसा थंडिल्ले, सिलंबिंबाझामिए य उस्सण्णे। छित्तविभत्ते सीमा, सीयाणे चेव ववहारो ॥ ३२५२॥ दारगाहा ।
प्रथमं रात्रिद्वारं, तच्च प्रागेव सप्रपञ्चमुक्तम्। द्वितीय दिगद्वारं, तच्च भण्यमानमास्ते, तृतीयं स्थण्डिलद्वारं तच्च स्थण्डिलं त्रिधा शिलारूपं, बिम्बादिवृक्षादीनामधः, ध्यामितं च। चतुर्थं | उत्सन्नद्वारं, पञ्चमं क्षेत्रविभक्ते भूमिभागे द्वयोमियोः सीमायां परिष्ठापनीयमित्येवं लक्षणम।
गाथा ३२४७-३२५३ परिष्ठापनायां दिगद्वारम्
१३०१ (A)
१. ०लचिंचा - पु. प्रे. ॥ एवमग्रेऽपि ॥ २. चिंचा-पु. प्रे. । एवमग्रेऽपि ॥
For Private And Personal Use Only