________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४
व्यवहारसूत्रम् सप्तम उद्देशकः
१२९६ (B)
नियुक्तिविस्तर:
तं चेव पुव्वभणियं, सुत्तनिवातो उ पंथ गामे वा । गामे एगमणेगा, बहू व एमेव पंथे वि ॥ ३२३४॥
यत् पूर्वं कल्पाध्ययने चतुर्थे उद्देशके विष्वग्भवनविधानं भणितं तदेवात्रापि द्रष्टव्यम् ,नवरमिह विशेषो भण्यते- सूत्रनिपातो ग्रामे वा भवेत् पथि वा 'गामाणुगामं दूइज्जमाणे' इति वचनात्। तत्र ग्रामे एको वा भवेदनेके वा, तत्र येऽनेके ते द्विप्रभृतयो यावत् सप्त बहवो वा द्रष्टव्याः । एवमेव पथ्यपि द्रष्टव्यम्, एको वाऽनेके वा। तत्राऽनेके द्विप्रभृतयो यावत् सप्त बहवो वा ॥३२३४॥
एतदेवाहएगो एगो चेव उ, दुप्पभिई अणेग सत्त बहुगा वा । कालगयगाम पंथेव जाणगा उज्झणविहीए ॥ ३२३५॥ एकस्तावदेक एव, तस्यैकत्वेन भेदाभावाद्, द्विप्रभृतयो यावत् सप्त तावदनेके, ततः
गाथा ३२३४-३२३९ कालधर्मे पारिष्ठापनादिविधि:
१२९६ (B)
For Private And Personal Use Only