________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२९६ (A)
C
अनन्तरसूत्रे अतिरेकार्थमतिरेकप्रतिपादनार्थमाचार्यस्योपाध्यायस्य च उपस्था उपस्थापनं कृतम्। तत्र षष्टि-पर्यायं सप्ततिवर्षजन्मकं मानुषं जरापाकं भवति, जरसा पक्वस्य च पतनं, तच्च पतनमनेन सूत्रेणाभिधीयते, एष सूत्रसम्बन्धः॥ ३२३३॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
ग्रामानुग्रामं दूइजमाणे इति विहरन् भिक्षुः आहच्च कदाचित् शरीरात् विष्वग्भवेद् नियेत इत्यर्थः । तच्च शरीरकं केचित् साधर्मिका: संयताः पश्येयुः। तत्र से तस्य साधर्मिकस्य कल्पते तत् शरीरं मा सागारिकं भवतु इति कृत्वा एकान्ते विविक्ते अचित्ते स्थण्डिले बहुप्रासुके कीटिकादिसत्त्वरहिते प्रत्युपेक्ष्य प्रमाद्यं च परिष्ठापयितुम् । अत्थि या इत्थ इत्यादि अस्ति चात्र किञ्चित् साधर्मिकसत्कमुपकरणजातं सलक्षणं पतद्ग्रहादि परिहरणार्ह |
४३२३४-३२३९ परिभोगार्ह। से इत्यादि, कल्पते से तस्य सागारकृतं गृहीत्वा, सागारकृतं नाम नात्मना
कालधर्मे स्वीकरोति [किन्तु] आचार्यसत्कमेतद्, आचार्य एव एतस्य ज्ञायका [इति] एवं गृहीत्वा
पारिष्ठा
पनादिविधिः आचार्याणां समर्पयेद्, यदि आचार्यस्तस्यैव ददाति ततः स 'मस्तकेन वन्दे' इति ब्रुवाण आचार्यवचः प्रमाणं करोति। एष द्वितीयोऽवग्रहः, तमनुज्ञाप्य द्विविधेन परिहारेण परिहर्तुं ४१२९६ (A) परिभोगयितुम्। अथाचार्योऽन्यस्मै ददाति तदा तस्य तदिति सूत्रसक्षेपार्थः ॥ सम्प्रति
गाथा
For Private And Personal Use Only