________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२९४ (B)
तत्र गर्भस्थे पुत्रे स्वगोत्रजादयस्तां रक्षन्ति, स एष पुत्रप्रभावः। अवटे गते चौरे क्षुल्लकस्य तन्मारणाय सामर्थ्यपर्यालोचनं सोऽप्येष पुरुषस्य प्रभावः ॥३२२९॥ तत्र प्रथमतो गुर्विणीदृष्टान्तं विभावयिषुस्तावदिदमाहसगोत्तरायमादीसु, गब्भत्थो वि धणं सुतो । रक्खए मायरं चेव, किमुतो जाय वड्डितो ॥ ३२३०॥
गर्भस्थोऽपि सुतः स्वगोत्रे राजादिषु धनं जिघृक्षुषु धनं रक्षति मातरं च, किं पुनर्जातः प्रवर्द्धितश्च, स सुतरां रक्षति ॥ ३२३०॥ तत्र यथा गर्भस्थोऽपि रक्षति तथा प्रतिपादयति
वणिए मए रायसिट्टे, गब्भिणिधणमत्थितो पसूयाए । सव्वं सुयस्स दाहं, धूयाए भत्त-वीवाहं ॥ ३२३१॥
एको वणिकः, तस्य भार्या आपन्नसत्त्वा, वणिक् कालगतः, ततः केनापि राज्ञः शिष्टं देव गुर्विण्या धनमस्ति । राज्ञोक्तं- 'तिष्ठतु तद्धनं, यदि प्रसूतायाः सुतो भविष्यति
सूत्र २०
गाथा ३२२८-३२३३ भिक्षुमरणे विधिः
४१२९४ (B)
For Private And Personal Use Only