________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२९१ (A)
इहलोए फलमेयं, परलोए फलं न देंति विज्जातो । आसायणा सुयस्स य, कुव्वइ दीहं तु संसारं ॥ ३२१७॥ [स] उन्मादं वा लभते रोगातकं वा दीर्घ प्राप्नुयात्, तीर्थकरभाषिताद्वा संयमाद् भ्रश्यति । इहलोके विद्या अङ्गश्रुतस्कन्धादिलक्षणाः फलं [परलोके ] मोक्षलक्षणं न ददति न प्रयच्छन्ति । न केवलं फलदानाभावः किन्तु श्रुतस्याऽऽशातना दीर्घ संसारं करोति। तदेवं फलत आशातनाऽभिहिता ॥३२१६ ॥ ३२१७ ॥
साम्प्रतमनाचारं फलत आहनाणायारो विराहितो, दंसणायारो तथा चरित्तं च । चरणविराहणयाए, मोक्खाभावो मुणेयव्वो ॥ ३२१८॥
अस्वाध्याये स्वाध्यायं कुर्वता ज्ञानाचारो विराधितः, तद्विराधनायां दर्शनाचारश्चारित्रं च विराधितम्। चरणविराधनतायां मोक्षाभावः ॥ ३२१८ ॥
अत्रैवापवादमाह
| सूत्र १८-१९
गाथा ३२१२-३२२० उपाध्याय
आचार्य| उद्देशनकाल:
श्रमण्या
१२९१ (A)
For Private And Personal Use Only