________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
सप्तम
उद्देश :
१२९० (B)
܀܀܀܀܀܀
www. kobatirth.org
आशातना ? को वा कीदृशः फलद्वारेण भणितोऽनाचारः ? ॥ ३२१४ ॥ तत्र रागद्वेषमोहान् व्याख्यानयति
गणिसद्दमाइमहितो, रागे दोसम्मि न सहते सद्दं । सव्वमसज्झायमयं, एमादी होति मोहो उ ॥ ३२१५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गणी आचार्य:, आदिशब्दादुपाध्यायो गणावच्छेदक इत्यादिपरिग्रहः, एवमादिभिः शब्दैर्महित उत्कर्षितो योऽस्वाध्याये स्वाध्यायं करोति स रागे द्रष्टव्यः । यस्त्वन्यस्य गणिशब्दमुपाध्यायशब्दं वा न सहते, अहमपि पठित्वा गणी उपाध्यायो वा भविष्यामि इति विचिन्तयन्नादरपरोऽस्वाध्यायेऽपि स्वाध्यायं विदधाति स द्वेषेऽवसातव्यः । यस्तु सर्वमस्वाध्यायमयमित्येवमादि विचिन्त्याऽस्वाध्याये स्वाध्यायं करोति एष भवति मोह इति ॥ ३२१५ ॥
सम्प्रत्याचार्यः फलद्वारेण आशातनामाह
उम्मायं व लभेज्जा, रोगायंकं च पाउणे दीहं । तित्थयरभासियातो, भस्सति सो संजमातो वा ॥ ३२१६ ॥
For Private And Personal Use Only
**
܀܀܀܀
सूत्र १८-१९
गाथा ३२१२-३२२० उपाध्याय
आचार्यउद्देशनकालः
श्रमण्या
१२९० (B)