________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२८९ (A)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतेषामनन्तरोदितानामन्यतरस्मिन्नात्मनोऽस्वाध्यायिके सति यः स्वाध्यायं करोति तत्राप्ययतनया स प्राप्नोति आज्ञादीनि तीर्थकराज्ञाभङ्गादीनि दूषणानि । आदिशब्दादनवस्थादिपरिग्रहः ॥ ३२०८॥
न केवलमिमे दोषाः किन्त्विमे [ तथा ] चाह -
सुयनाणम्मि अभत्ती, लोगविरुद्धं पमत्तछलणा य ।
विज्जासाहण वेगुण्ण धम्मयाए य मा कुणसु ॥ ३२०९ ॥
अस्वाध्यायिके पठने श्रुतज्ञानस्याभक्तिर्विराधना कृता भवति, तद्विराधनायां दर्शनविराधना चारित्रविराधना च तद्भावे मोक्षाभावः । तथा लोकविरुद्धमिदं यदात्मनोऽस्वाध्यायिके पठनम् । तथाहि— लौकिका अपि व्रणे आर्त्तवे वा परिगलति परिवेषणं देवतार्चनादिकं वा न कुर्वन्ति । तथा प्रमत्तीभूतस्य सतस्तस्य प्रान्तदेवतया छलना स्यात् । तथा यथा विद्या उपचारमन्तरेण साध्यमाना साधनवैगुण्यधर्मतया न सिध्यति, तथा श्रुतज्ञानमपि, तस्मात् मैवं कार्षीः ॥ ३२०९ ॥
For Private And Personal Use Only
**
गाथा
| ३२०४-३२११
आत्मसमुत्थे
स्वाध्य
यतना
१२८९ (A)