________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः
१२८८ (B)
जाहे तिन्नि विभिन्ना, ताहे हत्थसयबाहिरा धोउं । बंधेउं पुणो वि वाए, गंतुं अन्नत्थ व पढंति ॥ ३२०६॥
यदा त्रयोऽपि बन्धास्तेनाऽस्वाध्यायिकेन विभिन्ना भवन्ति तदा हस्तशतात् बहिर्गत्वा निष्प्रगलं प्रक्षाल्य पुनः क्षारं निक्षिप्योपरि चीवरेण बद्ध्वा पुनरपि वाचयति । अन्यत्र वा गन्तुं पठन्ति ॥ ३२०६॥
एमेव य समणीणं, वणम्मि इयरम्मि सत्त बंधाउ। तहवि य अठायमाणो धोऊणं अहव अन्नत्थ ॥ ३२०७॥
एवमेव श्रमणीनामपि व्रणविषये यतना कर्त्तव्या भवति, इतरस्मिन्नातवे सप्त बन्धाः पूर्वप्रकारेण भवन्ति। तथापि व्रणे इतरस्मिन् वा अतिष्ठति हस्तशताबहिः प्रक्षाल्य तथैव बन्धान् दत्त्वा वाचयति, अन्यत्र वा गत्वा पठन्ति ॥ ३२०७॥
एतेसामन्नयरे, असज्झाए अप्पणा तु सज्झायं । जो कुणइ अजयणाए, सो पावइ आणमादीणि ॥ ३२०८॥
गाथा ३२०४-३२११ | आत्मसमुत्थे अस्वाध्यायिके
यतना
१२८८ (B)
For Private And Personal Use Only