SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् एतेषामनन्तरोदितानामस्वाध्यायिकानामन्यतरस्मिन्नस्वाध्याये अस्वाध्यायिके सति यः करोति स्वाध्यायं स आज्ञाभङ्गं तीर्थकराज्ञाविलोपाद्, अनवस्थां तथाकुर्वन्तमवलोक्याऽन्यस्यापि तथाकरणात्। मिथ्यात्वमयथावादकरणात्, विराधनां संयमविराधनां ज्ञानोपचारोपघाताद आत्मविराधनां प्रान्तदेवताछलनात् प्राप्नोति ॥ ३२००॥ सप्तम उद्देशकः १२८६ (B) अत्रैवापवादमाहबितियागाढे सागारियादि कालगते असति वोच्छेए । एएहिं कारणेहिं, जयणाए कप्पई काउं ॥ ३२०१॥ द्वितीयपदमपवादपदम् आगाढे योगे उह्यमाने यद्यप्यस्वाध्यायिकं भवति तथापि यतनया कर्तुं कल्पते स्वाध्यायः, यथा स्कन्दके चमरे च प्रत्यासन्ने अनुद्दिष्टमपि स्कन्दकोद्देशं चमरोद्देशकं च रात्रौ रात्रौ त्रीन् दिवसान् अस्वाध्यायिकेऽपि तदनुग्रहाय कर्षयन्ति। तथा कारणवशेन प्रतिबद्धायां शय्यायां स्थितास्तत्र सागारिकस्य शय्यातरस्य प्रतिचारणाशब्दं श्रुत्वा मा शृणुयामेनमनिष्टं शब्दमिति कृत्वा यत् यस्य कालिकमुत्कालिकं वा परिजितं स सूत्र १७ गाथा ३१९९-३२०३ आत्मसमुत्थे अस्वाध्यायिके विधिः १२८६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy