________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् | सप्तम उद्देशकः
१२८५ (B)
त्रिष्वपि वारेषु प्रत्येकमन्यत्र शय्यातरगृहे सेज्झत्ति प्रातिवेशिकगृहे आदिशब्दादन्यस्मिन् वा परतरादौ गृहे क्षाराद्यर्थाय क्षारादिग्रहणनिमित्तं मध्ये प्रविश्य पिशितादिकमस्वाध्यायिकं प्रेक्षते। यदि न दृष्टं किमपि [तर्हि ] वाराणां त्रयाणां परतोऽन्यत्र गत्वा स्वाध्यायं प्रस्थापयन्ति । तत्रापि यदि त्रीन् वारान् उपहतः स्वाध्यायः क्षुतादिना ॥ ३१९६ ।।
ताहे पुणो वि अन्नत्थ, गंतु तत्थ वि य तिन्नि वारा उ । एवं नववारहते, ताहे पढमाए न पढंति ॥ ३१९७॥
ततः पुनरप्यन्यत्र स्थानान्तरे गत्वा स्वाध्यायः प्रस्थापनीयः। तत्रापि यदि त्रीन् वारान् क्षुतादिना कालस्योपघात: स्यात् तत एवममुना प्रकारेण सर्वसङ्कलनया नववारहते स्वाध्याये प्रथमायां पौरुष्यां न पठन्ति स्वाध्यायम् ॥ ३१९७ ॥
पट्टवियम्मि सिलोगे, घाणालोया उ वज्जणिज्जाउ । सोणिय-वच्चिक्काणं मुत्तपुरीसाण तह चेव ॥ ३१९८ ॥
गाथा ३१९०-३१९८ स्वाध्यायप्रस्थापनविधिः
१२८५ (B)
For Private And Personal Use Only