________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२८५ (A)
कालं, महत् पुनश्चेटरूपमल्पेनापि विरसेन स्वरेण कालमुपहन्ति। तदेवं प्राभातिककालग्रहणविधिरुक्तः ॥ ३१९३ ॥ ३१९४ ॥
सम्प्रति प्रस्थापनविधिमभिधित्सुराहगोसे य पदवंते, छीए छीए उ तिन्नि वारातो । आइन्न-पिसिय-महियाइपेहणट्ठा दिसा पेहे ॥३१९५॥
गोसे प्रभाते स्वाध्याये प्रस्थाप्यमाने यदि क्षुतं भवति तदा आकीर्णमासमन्तात् विकीर्ण यत् पिशितं, यत् महिकादिकमस्वाध्यायिकं तत् प्रेक्षणार्थं दिश: प्रेक्षते, तत्र यदि न दृष्टमस्वाध्यायिकं तदा पुनः प्रस्थापयति । तत्रापि यद्यर्द्धप्रस्थापिते भवति तदा पुनरप्याकीर्णपिशितमहिकादिप्रेक्षणार्थं दिश: प्रेक्षते। एवं क्षुते क्षुते उपलक्षणमेतदन्यस्मिन् वा स्वाध्यायभङ्गकारिणि समुपस्थिते त्रीन् वारान् आकीर्णपिशितादिनिरीक्षणार्थं दिश: प्रेक्षते ॥ ३१९५ ॥
न केवलं दिश: प्रेक्षते किन्तुसेज्जायरसेज्जादिसु, छारादट्ठाए विसिउ पेहंति । तिण्ह परेणऽण्णत्थ उ, तत्थ जई तिण्णि वाराओ ॥ ३१९६॥
गाथा |३१९०-३१९८
स्वाध्यायप्रस्थापनविधिः
१२८५ (A)
For Private And Personal Use Only