________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
प्रवसतीत्येवंशील: प्रवासी तस्य जायैव जायिका भार्या यदि कालवेलायां कालग्रहणसमये रुद्यात् तर्हि यावन्न रोदिति तावदनागते एव कालो गृह्यते । अथ पुनः सा प्रगे एव अतिसमन्धकारे रोदिति ॥ ३१९२ ॥
व्यवहारसूत्रम् सप्तम
उद्देशकः १२८४ (B)
गाथा
तत आहताहे उ पण्णविज्जइ, अह पन्नविया जया न ठाएज्जा । अह पुण बालं रुवेज्जा सि ताहे उग्घाडेजइ ॥ ३१९३॥ वीसरसरं रुवंते, अवत्तगडिंभगम्मि मा गेण्हे । अप्पेण विरसेण, महल्ल चेडं तु उवहणती ॥ ३१९४॥
यदि सा अतिसमन्धकारे एव रोदिति ततो वृषभैर्गत्वा सा कोमलवचोभि: प्रज्ञाप्यते, यथा-समन्धकारे न रोदिति। अथ सा प्रज्ञापिताऽपि यदा न तिष्ठति न तस्यां वेलायां रोदनादुपरमति तदा सा उद्घट्यते, तस्या अवहेठननिमित्तं कायोत्सर्गः क्रियते। अथ बालः किमपि रुद्यात् तदा तस्मिन् अव्यक्तके डिम्भे प्रबन्धेन विस्वरस्वरं रुदिति मा गृह्णीयात्
३१९०-३१९८ स्वाध्यायप्रस्थापनविधिः
१२८४ (B)
For Private And Personal Use Only