________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२८३ (B) | X
* वाचनायां य औपग्रहिक उपष्टम्भकारी प्राभातिकः कालः, तदर्थं शेषाः साधवो वैरात्रिकस्य कालस्य प्रतिक्रामन्ति, एको न प्रतिक्रामति । ततः स प्राभातिकं कालं गृह्णाति । अन्ये तु ब्रुवते - कालग्राही वैरात्रिकस्य कालस्य प्रतिक्रम्य प्राभातिकं कालं गृह्णाति । शेषास्तु कालवेलायां वैरात्रिकस्य प्रतिक्रामन्ति प्राभातिकश्च कालो यदि नव वारान् हतस्तदा ध्रुवमस्वाध्याय इति ॥ ३१८८ ॥
कथं नव वारान् ग्रहणं हननं वा ? तत आह
एक्केको तिन्नि वारे, छीयादीहयम्मि गेण्हती कालं ।
हसती एक्को वि उ, नववारे गेण्हती ताहे ॥ ३१८९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
क्षुतादिना हते एकैकस्त्रीन् वारान् कालं गृह्णाति । इयमत्र भावना - क्षुतादिभिः कालस्योपघातसम्भवे एकः त्रीन् वारान् कालं गृह्णाति । तस्याऽप्युपहते अन्यः त्रीन् वारान् । अथान्यः कालं गृह्णन् न विद्यते तर्हि तस्य गृह्णतोऽसति अभावे एकोऽपि नव वारान् कालं गृह्णाति, तथापि चेदुपहतस्तर्हि हता पौरुषीति ध्रुवमस्वाध्यायः ॥ ३१८९॥
For Private And Personal Use Only
**
गाथा
३१८४- ३१८९ कालग्रहण
सङ्ख्याविचार:
१२८३ (B)