________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम
उद्देशकः १२८३ (A)
अत्रैव प्रकारान्तरमाहअहवा वि अड्डरत्ते गहिए वेरत्तिए असुद्धम्मि । तेणेव य पढियम्मी, पाभातियऽसुद्धे दोन्नेव ॥३१८७॥
अथवेति पूर्ववत्, प्रादोषिकं कालं गृहीत्वा तेन कालिके श्रुते परावर्त्तिते द्वितीये यामे तेनैव कालेन प्रज्ञापनादि परावर्त्य कालवेलायामतिक्रान्तायामर्द्धरात्रिके काले गृहीते तेनाचार्येण प्रज्ञापनादौ परावर्त्तिते चतुर्थ्यां पौरुष्यामवगाढायां वैरात्रिके अशुद्ध ततस्तेनैवार्द्धरात्रिकेन कालेन कालिके पठिते, प्राभातिके अशुद्धे द्वावेव कालौ भवतः । उपलक्षणमेतत्, तेन प्रादोषिक-प्राभातिकयोरथवा अर्द्धरात्रिक-वैरात्रिकयो[रथवाऽर्द्धरात्रिकप्रभातिकयो]र्यदि वा वैरात्रिकप्राभातिकयोर्ग्रहणे शेषयोरग्रहणे कालद्विकम्। एकतरस्य कालस्य शुद्धावेकः कालः ॥ ३१८७ ॥
नवकालवेलसेसे, उवगहित अट्ठयाए पडिक्कमए । न पडिक्कमए वेगो, नववारहए असज्झातो. ॥ ३१८८॥ नवानां कालानां वेला यत्र स नवकालवेल चरमपौरुष्यां शेषे बालवृद्धादीनां
गाथा ३१८४-३१८९ कालग्रहणसङ्ख्याविचारः
१२८३ (A)
For Private And Personal Use Only