________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२८१ (A)
एको दण्डधरो बहिः स्थित: कालं प्रतिचरति एकः पुनरन्त:स्थितः कालं गृह्णाति। एष वर्षासु प्राभातिके काले विशेषो नाऽऽद्येषु त्रिषु कालेषु। अथ कतरे चत्वारः काला:? उच्यते प्रथमः प्रादोषिक:, द्वितीयोऽर्द्धरात्रस्फिटितः, तृतीयो वैरात्रिकः, चतुर्थः प्राभातिकः ॥ ३१७९ ॥
अथ कः कालः प्रथमतः कस्यां दिशि गृह्यते? तत आहपादोसियऽड्वरत्ते, उत्तरदिसि पुव्व पेहए कालं । वेरत्तियम्मि भयणा, पुव्वदिसा पच्छिमे काले ॥३१८० ॥ [ओघनि. ६६२]
प्रादोषिकमर्द्धरात्रमर्द्धरात्रस्फिटितं च कालं पूर्वं प्रत्युपेक्षते गृह्णाति उत्तरस्यां दिशि, वैरात्रिके भजना विकल्पना, उत्तरस्यां दिशि पूर्वं प्रत्युपेक्षते पूर्वस्यां वेति, पश्चिमे प्राभातिके काले प्रथमतः प्रत्युपेक्षणं पूर्वस्यां दिशि ॥ ३१८०॥
अथ कियन्त: काला जघन्यतः, कियन्त उत्कर्षतः साधूनां ग्राह्याः? तत आहकालचउक्कं उक्कोसएण जहन्नेण तिगं तु बोधव्वं । बिइयपयम्मि दुगं तू, माइट्ठाणे विमुक्काणं ॥ ३१८१॥
गाथा ३१७६-३१८३ कालग्रहणविधिः
१२८१ (A)
For Private And Personal Use Only