________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२८० (A
त्रयो दिश: प्रकाशयुक्ता यदि स्युस्तदा प्राभातिककालशुद्धिरिति वाक्यशेषः । इयमत्र भावनावर्षाकाले उपरि छन्ने तिर्यग्दिक्षु अछन्नासु मण्डपिकादौ काला गृह्यन्ते। तत्राऽऽद्येषु 'त्रिषु' कालेषु यदि चतस्रोऽपि दिश: प्रकाशयुक्ता अनन्तरिता इति भावः, तदा शुद्धयति। तथा यद्युपरि नीचं तदा प्राभातिकं कालमुपविष्टोऽपि गृह्णाति, ऋतुबद्धे काले चतुर्ध्वपि कालेषु यदि चतस्रोऽपि दिशः प्रकाशयुक्तास्तदा शुद्धिरितरथा नेति। उउबद्धे तारगा तिन्नि त्ति, ऋतुबद्धे काले आद्येषु त्रिषु कालेषु यदि तिस्रस्तारका दृश्यन्ते तदा कालो गृह्यते, अदृष्टासु न गृह्यते। कालग्रहणानन्तरं तु यद्यपि न दृश्यन्ते तारकास्तथापि पठन्ति, प्राभातिके पुन: काले अदृष्टेऽपि तारके ग्रहणमनुज्ञातम्। वर्षाकाले चत्वारोऽपि काला अदृश्यमानास्वपि तारकासु गृह्यन्ते ॥ ३१७५ ॥
एनामेव गाथां व्याचिख्यासुराह
गाथा
३१७६-३१८६ कालग्रहणाविधिः
.१२८० (A)
कणगा हणंति कालं, ति पंच सत्तेव घि-सिसिर-वासे । उक्का उ सरेहागा, रेहारहितो भवे कणगो ॥ ३१७६ ।।
For Private And Personal Use Only