________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम उद्देशकः १२७७ (A)
܀܀܀܀܀܀܀܀܀
इदं गाथात्रयमपि व्याख्यातार्थत्वात् सुगमम् ॥ ३१६२॥ ६१६३ ॥ ३१६४ ॥ जइ उत्तरं अपेहिय, गेण्हइ सेसा उ तो हतो कालो । तीसु अदीसंतीसु वि, तारासु भवे जहण्णेणं ॥ ३१६५॥
यदि उत्तरां दिशमप्रेक्ष्य शेषा दिशः प्राथम्येन गृह्णाति। किमुक्तं भवति? यदि पूर्वमुत्तराभिमुखो न भवति किन्तु शेषदिगभिमुखस्तदा हतः कालः । तथा यदि जघन्यतस्तिसृषु तारास्वदृश्यमानासु कालं गृह्णाति तदाऽपि हतः कालः ॥ ३१६५ ॥
वासं व निवडइ जती, अहव असज्झाइयं व निवडेज्जा । एमादीहि न सुज्झे, तव्विरहम्मी भवे सुद्धो ॥ ३१६६॥
यदि वर्षं निपतति अथवा किञ्चिदस्वाध्यायिकं निपतेत् तदा, एवमादिभिः, आदिशब्दात् यदि कायोत्सर्गेण तिष्ठन् भूमिं न प्रमार्जयति, छिन्नं वा मार्जारादिनाऽपान्तरालं, दण्डधरो वा कालग्राहिणो दूरव्यवस्थानस्थितो न युगान्तरमात्र इत्यादिपरिग्रहः, कालो न | शुद्ध्यति, उपहन्यते काल इत्यर्थः । तद्विरहे यथोक्तदोषाभावे भवति शुद्धः कालः ॥३१६६ ॥
गाथा ३१६१-३१६९ कालग्रहण
विधिः कालवधस्थानानि च
१२७७ (A)
For Private And Personal Use Only