________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम उद्देशकः
मूढः, शङ्कितं वा अध्ययनादिकं जातम्। अन्यत्र वा दिशि अध्ययने वा सङ्क्रान्तः । इन्द्रियविषयो वा अमनोज्ञः संवृत्तो, यथा दुर्गन्धः आगच्छति, विकृतं वा रूपं पश्यति, विकृतं नाम-आस्वाभाविकं, चेडरूपं वा विस्वरं रुदति, 'छिन्धि भिन्धि मारयेति' वा शब्दान्शृणोति। उपलक्षणमेतदिष्टविषयेषु वाऽपि रागमुपगच्छति तदा कालवधः ॥३१६१ ॥
१२७६ (B)|
एतस्या एव गाथाया व्याख्यानमाहगिण्हंतस्स उ कालं, जइ बिंदू तत्थ कोइ निवडेज्जा । छीयं व परिणतो वा, भावो होज्जा से अन्नतो ॥ ३१६२॥ भीतो बिभीसियाई, भासंतो वावि गेण्हइ न सुज्झे । मूढो व दिसज्झयणे, संकियं वावि उवघातो ॥ ३१६३॥ अन्नं वा दिसज्झयणं, संकंतो होज्जऽणिट्ठविसए वा । इद्वेसु वावि रागं, जइ वच्चइ तो हतो कालो ॥ ३१६४॥
गाथा |३१६१-३१६९ कालग्रहण
विधिः कालवधस्थानानि च
X
१२७६ (B)
For Private And Personal Use Only