________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२७६ (A)|
एवं तावदुत्तरस्यां दिशि विधिरुक्तः. इत्थं च शेषायामप्येकैकस्यां दिशि द्रष्टव्यम्, तद्यथाक्षुल्लकाचारकथाद्यगाथानुप्रेक्षानन्तरं ततोऽपि परावृत्त्य पश्चिमाभिमुख एतच्चिन्तयति, तदनन्तरं ततोऽपि परावृत्त्य दक्षिणाऽभिमुख एतच्चिन्तयति, चतसृष्वपि दिक्षु च प्रत्येकं चिन्तयन् द्वे द्वे दिशौ निरीक्षते, द्वे द्वे दिशौ दण्डधरः। तत्र यदीमानि भवेयुस्तदा कालवधः ॥३१६०॥
कानि? इत्यत आह
गाथा ३१६१-३१६९ कालग्रहण
विधिः
बिंदू य छीयपरिणय, भयरोमंचे व होइ कालवहो । भासंतमूढ संकिय, इंदियविसए य अमणुण्णे ॥३१६१॥
[ओघनि. ६५१] ___ यदि कालं गृह्णत उदकबिन्दुस्तस्य दण्डधरस्य चोपरि निपतेत्, क्षुतं वा केनापि स्यात्, भावो वा तस्यान्यथा परिणतः स्याद्, यदि वाऽन्यतोऽनानुपूर्त्या दिशि परिणतोऽथवाऽध्ययनमनानुपूर्व्या अनुप्रेक्षितुं परिणतः, यदि वा बिभीषिकादिदर्शनतो भयेन रोमाञ्चः सञ्जातः। अथवा वाचा अध्ययनमन्यद्वा भाषते, यदि वा दिशि अध्ययने वा
X
कालवधस्थानानि च
.१२७६ (A)
For Private And Personal Use Only