________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२७३ (B)
तस्य चाऽऽगच्छत इयं सामाचारी- यदि स समागच्छन् नैषेधिकीं न करोति कालवधः। अथ 'नमो खमासमणाणं' इति न ब्रूते तदाऽपि कालवधः। एवं गत्वा स निवेदयति यथा कालस्य बहुवेला वर्तते तस्माद्यूयमल्पशब्दा भवथ इति ॥ ३१५२ ॥
ताहे उवउत्तेहिं, अप्पसद्देहिं तत्थ होयव्वं । जइ न सुयं तहिं केहि वि, दिटुंतो गंडएण तहिं ॥३१५३॥
एवं दंडधारिणा निवेदने कृते तत्र कालग्रहणवेलायां सर्वैरप्युपयुक्तैरल्पशब्दैर्भवितव्यम्। यदि पुनस्तत्र तथा दण्डधारिणा निवेदने कृतेऽपि कैश्चिदपि श्रुतं न भवेत् तत्र दृष्टान्तो गण्डकेन वक्तव्यः॥ ३१५३॥
तमेवाहजह गंडगमुग्घुटे, बहूहि असुयम्मि गंडए दंडो ।
अह थोवेहि न सुयं, निवडति तेसिं ततो दंडो ॥३१५४॥ [तुला-ओ.नि.६४५] । १. तुला ओघनि. गा. ६४४ टीका।।
गाथा ३१४८-३१५४ | कालग्रहण
विधिः
१२७३ (B)
For Private And Personal Use Only