________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२७४ (A)
यथा ब्राह्मणाः किमपि विभक्तुकामाः वा पर्यालोचयितुकामा वा चतुर्वेदसमवायनिमित्तं गण्डकं पूर्वस्थापितं सन्दिशन्ति, यथा 'चतुर्वेदसमवायोद्घोषणां कुरुत', अतस्तेन गण्डकेनो ष्टे यदि बहुभिर्न श्रुतं तदा गण्डके दण्डः, गण्डकस्य दण्डः क्रियते। अथ स्तोकैर्न श्रुतं बहुभिस्तु श्रुतमिति तदा यैर्न श्रुतं तेषां दण्डो निपतति ॥ ३१५४ ॥
एष दृष्टान्तोऽयमर्थोपनयःएविह वी दट्ठव्वं, दंडधरे होति दंडो तेसिं च । आवेदेउं गच्छति, तमेव ठाणं तु दंडधरो ॥३१५५॥ एवमुक्तेन प्रकारेण इहापि द्रष्टव्यम्, यदि बहुभिर्न श्रुतं तदा दण्डधरस्य दण्डो भवति। अथ बहुभिः श्रुतं कतिपयैर्ना श्रावि तदा तेषां कतिपयानामश्रुतवतां दण्डः। एवं दण्डधरः साधूनामावेद्य तदेव स्थानमात्मीयं गच्छति ॥ ३१५५ ॥
ताहे कालग्गाही, उद्वेइ गुणेहिमेहि जुत्तो उ । पियधम्मो दढधम्मो, संविग्गोऽवज्जभीरु य ॥३१५६।।
गाथा ४३१५५-३१६०
कालग्रहणविधि:
१२७४ (A)
For Private And Personal Use Only