________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२७३ (A)
तामेवाहकालो संझा य तहा, दो वि समप्पंति जह समं चेव। तह तं तुलं ति कालं, चरमदिसं वा असंझायं ॥३१५१॥
[आ.नि.१३२६,नि.भा.३१६२] तथा कथञ्चनापि तं कालं तुलयतः कालग्रहणवेलां कलयतो यथा कालस्तथा सन्ध्या च द्वावप्येतौ यथा समकं समाप्नुतः समाप्तिं यातः। काले समाप्ते यथा सन्ध्याविगमो भवतीति भावः। यदि वा यथाकालसमाप्तौ चरमां पश्चिमां दिशमसन्ध्याकां पश्यतस्तथा तुलयतः चरमायां दिशि पश्चात् सन्ध्याविगमो भवतीति प्रकारान्तरोपदर्शनम्॥ ३१५१॥
नाऊण कालवेलं, ताहे उट्ठेउ दंडधारी उ । गंतूण निवेदेती, बहुवेला अप्पसद्दत्ति ॥ ३१५२॥
उक्तप्रकारेण कालग्रहणवेलां तुलयित्वा ज्ञात्वा च कालवेलाम् , किमुक्तं भवति? स्तोकावशेषा सन्ध्या तत इदानीं कालग्रहणसमय इति परिज्ञाय तदनन्तरं दण्डधारी साधुजननिवेदनार्थमुत्तिष्ठति, उत्थाय ततः कालग्रहणस्थानात् स दण्डधारी प्रतिश्रयमागच्छति।
गाथा ३१४८-३१५४ कालग्रहणविधि:
१२७३ (A)
For Private And Personal Use Only