________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम
उद्देशकः १२७१ (B)
यदि निर्व्याघातं भवति, ततो गुरूणां कृतिकर्म वन्दनकं दातव्यमितरथा उपाध्यायस्य, ततः कृतिकर्मणि प्रदत्ते कालग्रहणाय आप्रच्छनं कर्त्तव्यम् यथा- 'प्रादोषिकं कालं गृह्णीमः,' तत्र यद्येवमापृच्छयाऽऽवश्यकीं न करोति, भूमिं वा न प्रमार्जयति, अपान्तराले गच्छन् स्खलितः पतितो वा वस्त्रादि वा क्वापि विलगति तदा कालस्य व्याघातः। अथवा इन्द्रियार्थाः प्रतिकूला: समापतिताः दिशो वा विपरीताः प्रतिभान्ति स्म, तारा वा पतन्ति वर्ष वा अकाले निपतति, अन्यद्वा अस्वाध्यायिकमुपजातं तदा कालवधः ॥ ३१४५ ॥ कितिकम्मं कुणमाणो, आवत्तगमादियं तहिं वितहं । कुणति गुरू वा वितहं , पडिच्छती तत्थ कालवहो ॥ ३१४६॥
[तुला.ओ.नि.६४१] कृतिकर्म वन्दनकं कुर्वन् यद्यावर्त्तादिकं तत्र वितथं करोति, गुरुर्वा तत्र वन्दनके वितथं प्रतीच्छति तदा कालवधः ॥ ३१४६ ।।
एवं आवाससेजमादि वितहं खलियपडिए य । निंताणच्छीयजोई, व होज ताहे नियत्तंति ॥ ३१४७॥
गाथा ३१४१-३१४७ कालग्रहणविधौ काल
वधनिमित्ता
दीनि
१२७१ (B)
For Private And Personal Use Only