________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२६८ (B)
उच्चारभूमयो द्वादश। एवमेव प्रश्रवणस्य द्वादश भूमयस्तिस्रो भूमयः कालस्य। तद्यथाआसन्ने दूरे मध्ये, एताश्चोपाश्रयपरिघस्यान्तर्वेदितव्याः । सर्वसङ्ख्यया चतुर्विंशति (सप्तविंशति) भूमी: प्रत्युपेक्षते ॥ ३१३६ ॥ एतदेवाहअहियासिया य अंतो, आसन्ने चेव दूरमझे य । तिण्णेव अणहियासी, अंतो छ च्छच्च बाहिरतो ॥ ३१३७॥ एमेव य पासवणे, बारस चउवीसतिं तु पेहित्ता । कालस्स य तिन्नि भवे, अह सूरो अस्थमुवयाति ॥ ३१३८॥
[ओघ.नि.६३३-४,नि.भा.६११९-६१२०] अध्यास्या अध्यासनीया उपाश्रयपरिघस्याऽन्तस्तिस्रो भूमयः, तद्यथा-आसन्ने दूरे मध्ये च। एवमेव च तिस्रो मध्येऽनध्यास्या अध्यासितुमशक्याः। सर्वसङ्ख्यया अन्तरुच्चारस्य
गाथा ३१३५-३१४० कालग्रहणविधौ २४ भूमिप्रत्युपेक्षणम्
१२६८ (B)
१. ओघनियुक्तिवृत्तौ-अधिकासिका, अनधिकासिका-इति॥
For Private And Personal Use Only