________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२६८ (A)
.
.
पंचविहअसज्झायस्स, जाणणट्ठाए पेहए कालं । काए विहीए पेहे?, सामायारी इमा तत्थ ॥ ३१३५ ॥
यतोऽस्वाध्यायस्यैव परिज्ञानाय कालग्रहणमुक्तं तीर्थकरगणधरैः। ततः पञ्चविधस्याऽस्वाध्यायिकस्य ज्ञानायाऽवश्यं प्रेक्षते साधुः कालम्। शिष्यः प्राह-केन विधिना प्रेक्षते कालम् ? सूरिराह- तत्र कालप्रेक्षणे इयं वक्ष्यमाणा सामाचारी॥ ३१३५ ॥
तामेवाहचउभागऽवसेसाए, चरिमाए पोरिसीए उ । ततो ततो पेहेजा, उच्चारादीण भूमीतो ॥ ३१३६॥
दिवसस्य चतुर्थी पौरुषी चरमपौरुषी तस्यां चरमायां पौरुष्यां चतुर्भागावशेषायां तिस्त्रस्तिस्त्र उच्चारादीनां उच्चार-प्रश्रवण-कालादीनां भूमी: प्रत्युपेक्षेत। इयमत्र भावनाउपाश्रयपरिघस्यान्तस्तिस्रो भूमीरुच्चारस्याऽध्यासितव्याः प्रत्युपेक्षते । तद्यथा-आसन्ने दूरे मध्ये च। तिस्रोऽनध्यासितव्याः। ता अप्येवमेव एता: परिघस्यान्तः षट् । एवमेव परिघाबहिरपि षट् । तद्यथा- आसन्नदूरमध्यभेदतस्तिस्रोऽध्यासितव्यास्तिस्रोऽनध्यासितव्या इति सर्वसङ्कलनया
.
.
܀܀܀܀܀܀܀܀
गाथा ३१३५-३१४० कालग्रहणविधौ २४ भूमिप्रत्युपेक्षणम्
१२६८ (A)
For Private And Personal Use Only