________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम - उद्देशकः १२६७ (B)
एषोऽनन्तरोदित आत्मसमुत्थ-परसमुत्थभेदभिन्नोऽस्वाध्याय उक्तः। तद्विवर्जितस्तद्व्यतिरिक्तः स्वाध्यायः स्वाध्यायिकमित्यर्थः । तत्र स्वाध्यायिके इयं वक्ष्यमाणा यतना, तामेवाह स्वाध्यायिकेऽपि सति कालं प्रत्युपेक्ष्य स्वाध्यायं करोति, यदि पुनः कालमप्रत्युपेक्ष्य स्वाध्यायं करोति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः ॥ ३१३३ ॥
अत्र परावकाशमाशङ्कतेजइ नत्थि असज्झायं, किं निमित्तं तु घेप्पए कालो? । तस्सेव जाणणट्ठा, भन्नइ किं अस्थि नत्थि त्ति ॥ ३१३४॥
गाथा ननु यदि नास्त्यस्वाध्यायमस्वाध्यायिकं तर्हि किं निमित्तं केन कारणेन कालो गृह्यते? :
३१२९-३१३४
स्वाध्यायिसूरिराह- भण्यते-तस्यैवाऽस्वाध्यायिकस्य परिज्ञानार्थं कालो गृह्यते। यथा किमस्ति कज्ञानार्थं तदस्वाध्यायिकं किं वा नेति, यद्यस्वाध्यायिकं भविष्यति तत: कालो न शुद्धिमासादयिष्यति। | कालग्रहणम् अथ नास्ति ततः कालः शुद्धो भविष्यति॥ ३१३४॥
१२६७ (B) एतदेवाह
For Private And Personal Use Only