________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२६९ (A)
भूमयः षट्। एवमेव षट् परिघाद् बहिरपि सर्वसङ्कलनया द्वादशोच्चारभूमयः। एवमेव प्रश्रवणेऽपि द्वादशभूमयः। सर्वमीलने चतुर्विंशतिः। ताश्चतुर्विंशतिं भूमीः प्रत्युपेक्षते। तदनन्तरं कालस्य तिस्रो भूमयः जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्या भवन्ति। तासु च प्रत्युपेक्षितासु अथ अनन्तरं सूर्योऽस्तमुपयाति ॥ ३१३७॥ ३१३८ ॥
जइ पुण निव्वाघातं, आवस्सं तो करेंति सव्वे वि । सड्ढादिकहणवाघाययाए पच्छा गुरू ठंति ॥ ३१३९॥
[ओघनि.६३५,आव.नि.१३६५] सूर्यास्तमयसमये यदि निर्व्याघातं व्याघातस्याभावः, गाथायां पुंस्त्वं प्राकृतत्वात्, ततः सर्वेऽपि गुरुप्रभृतय आवश्यकं प्रतिक्रमणं कुर्वन्ति। अथ श्राद्धानां श्रावकाणामादिशब्दादश्राद्धानां वा धर्मो गुरूणा कथयितव्योऽस्ति ततः श्राद्धादीनां धर्मकथनेन व्याघाततायामावश्यकस्य व्याघाते सति पश्चाद् गुरवो निषद्याधरसहिता आवश्यके तिष्ठन्ति । इयमत्र भावना-यदि श्राद्धादीनां धर्मः कथयितव्यो भवति तत आचार्यों धर्मं कथयति निषद्याधरश्च पार्श्वे तिष्ठति, शेषाः पुनरावश्यकभूमौ सूत्रार्थस्मरणनिमित्तमाचार्यमापृच्छय आत्मीये आत्मीये स्थाने
गाथा ३१३५-३१४० कालग्रहणविधौ २४ भूमिप्रत्युपेक्षणम्
१२६९ (A)
For Private And Personal Use Only