________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः १२६५ (A)
यत्र हस्तशताभ्यन्तरे दारकादीनां दन्तः पतितो भवति तत्र निभालनीयं, यदि दृश्यते तदा परिष्ठाप्यः। अथ सम्यग् मृगयमाणैरपि न दृष्टस्तदा शुद्धमिति कल्पते स्वाध्यायः । अन्ये तु ब्रुवते-तस्यावहेठनार्थं कायोत्सर्गः करणीयः । दन्तं मुक्त्वा शेषे अङ्गोपाङ्गादिसम्बन्धिन्यस्थिनि हस्तशताभ्यन्तरे पतिते द्वादश वर्षाणि न कल्पते स्वाध्यायः। अथ तत् स्थानमग्निकायेन ध्यामितं पानीयेन वा प्रव्यूढं तदा शुद्धमिति ध्यामिते व्यूढे वा स्वाध्यायः कल्पते। तथा सीयाणत्ति श्मशाने यानि कलेवराणि दग्धानि तान्यस्वाध्यायिकानि न भवन्ति, यानि पुनस्तत्रानाथकलेवराणि न दग्धानि निखातीकृतानि वा तानि द्वादश वर्षाणि स्वाध्यायं घ्नन्ति । यद्यपि च नाम श्मशानं वर्षोदकेन प्रव्यूढं तथापि तत्र न कल्पते स्वाध्यायो मानुषास्थिबहुलत्वात्। पाणमादीण त्ति पाण नाम आडम्बरो नाम यक्षो हिरिमिक्काऽपरनामा दैवतं तस्यायतनस्याधस्ताद् मानुषाण्यस्थीनि निक्षिप्यन्ते, ततस्तत्र तथा मातृगृहे चामुण्डाऽऽयतने रुद्रगृहे वाऽधस्तात् मानुषं कपालं निक्षिप्यते, ततस्तयोरपि द्वादश वर्षाण्यस्वाध्यायः ॥३१२६॥
गाथा ३१२४-३१२८
मानुषं | शारीरिकम् अस्वाध्यायिकम्
१२६५ (A)
अमुमेव गाथावयवं व्याचिख्यासुराह
For Private And Personal Use Only