SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२६५ (B) सीयाणे जं द8, न तं तु मुत्तूणऽणाहनिहयाई । आडंबरे रुद्दे, मादिसु हेट्ठिया बारा ॥ ३१२७॥ [आव.भा.२२२,नि.भा.६११२] श्मशाने यत् दग्धमस्थिजातं न तदस्वाध्यायिकं भवति । तन्मुक्त्वा शेषाणि न दग्धानि अनाथकलेवराणि निखातानि वा तानि द्वादश वर्षाणि स्वाध्यायं घ्नन्ति। तथा आडम्बरे आडम्बरयक्षायतने रुद्रे रुद्रायतने मातृषु मातृगृहे आडम्बरादीनामधस्तादस्थीनि सन्ति तेन कारणेन तत्र द्वादश वर्षाण्यस्वाध्यायः ॥ ३१२७ ।। असिवोमाघाऽऽयणेसुं, बारस अवसोहितम्मि न करेंति । झामितवूढे कीरति, आवासियसोहिते चेव ॥ ३१२८ ॥ [आव.नि.१३५९] यत्र ग्रामे समुत्पन्नेन अशिवेन भूयान् जनः कालगतो न च निष्काशितः, यदि वा अवमौदर्येण प्रभूतो जनो मृतो न च निष्काशितः अथवा आघातस्थानेषु भूयान् जनो मारयित्वा २ निक्षिप्तो वर्त्तते, तत एतेष्वशिवाऽवमौदर्याऽऽघातस्थानेषु पूर्वं विशोधनं क्रियते विशोधने च क्रियमाणे यद् दृष्टं तत् परित्यज्यते। अदृष्टविषये च देवतायाः कायोत्सर्ग कृत्वा पठन्ति। अथ न क्रियते विशोधनं ततस्तस्मिन्नविशोधिते द्वादश वर्षाणि यावत् स्वाध्यायं न कुर्वन्ति। गाथा ३१२४-३१२८ मानुषं शारीरिकम् अस्वाध्यायिकम् ४ १२६५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy