________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम उद्देशक:
१२६४ (A)
܀܀܀
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समागच्छति तदा न भवति, तथा यद्यप्यागन्तुं (त्य) वमति तथापि चोदक ! नास्त्यस्वाध्यायिकं, यस्मात् तद् वान्तं परिणतम्, एवं मार्जारादिकमप्यधिकृत्य भावनीयम् ॥ ३१२३ ॥
गतं तैरश्चम् । अधुना मानुषमाह
माणुसगं चउद्धा, अट्ठि मोत्तूण सयमहोरत्तं ।
परियावन्नविवण्णे, सेसे तिग सत्त अट्ठेव ॥ ३१२४ ॥ [ आव.नि. १३५५] मानुषकं मानुषमस्वाध्यायिकं चतुर्द्धा । तद्यथा - चर्म रुधिरं मांसमस्थि च । एतेष्वस्थि मुक्त्वा शेषेषु सत्सु क्षेत्रतो हस्तशताभ्यन्तरे न कल्पते स्वाध्यायः । कालतोऽहोरात्रम् । परियावन्नविवण्ण त्ति, मानुषं तैरश्चं वा यद् रुधिरं तद् यदि पर्यापन्नत्वेन स्वभाववर्णाद्विवर्णीभूतं भवति खदिरसारभमाससारादिकल्पं तदा तदस्वाध्यायिकं न भवतीति क्रियते तस्मिन् पतितेऽपि स्वाध्यायः । सेस त्ति, पर्यापनं विवर्णं मुक्त्वा शेषमस्वाध्यायिकं भवति । तिग त्ति, यद् अविरताया मासे मासे आर्त्तवमस्वाध्यायिकमागच्छति तत् स्वभावतः त्रीणि दिनानि गलति ततस्तानि त्रीणि दिनानि यावदस्वाध्यायः । त्रयाणां दिवसानां परतोऽपि कस्याश्चित् गलति १. खदिरसारसमा मु. आहोर ७, आहोर ६४ ॥
For Private And Personal Use Only
गाथा
३१२४-३१२८
मानुषं
* शारीरिकम् अस्वाध्यायिकम्
१२६४ (A)
܀܀܀܀܀܀܀