________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२६२ (A)
भिन्नम् तस्य चाऽण्डकस्य कललबिन्दुभूमौ पतितस्तदा भिन्ने अण्डके बिन्दौ च भूमौ पतिते न कल्पते स्वाध्यायः। अथ कल्पे पतितं सद् अण्डकं भिन्नं कललबिन्दूर्वा तत्र लग्न:,तदा तस्मिन् षष्टिहस्तेभ्यः परतो बहिर्नीत्वा धौते कल्पते । तथा विजातायां प्रसूतायां तैरश्च्यामस्वाध्यायः पौरुषीत्रितयं यावत्, तथा ये राजपथे अस्वाध्यायिकबिन्दवो गलितास्ते न गण्यन्ते। अथान्यत्र पतितेऽस्वाध्यायिकं, ततो वर्षोदकप्रवाहेन तस्मिन् व्यूढे कल्पते। अत्र श्वादिकमाश्रित्य परस्य वचनं तदने भावयिष्यते, इति गाथासक्षेपार्थः ॥ ३११७॥
साम्प्रतमेनामेव विवरीषुरिदमाहअंडगमुज्झिय कप्पे, न य भूमि खणंति इहरहा तिण्णि । असज्झाइयपमाणं, मच्छियपाया जहिं खुप्पे ॥ ३११८॥
यद्यण्डकमभिन्नमेव पतितं तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते, अथ भिन्नं तदा न कल्पते, न च भूमि खनन्ति, इतरथा भूमिखननेन यदि तदस्वाध्यायिक मपनयन्ति तथापि
गाथा ३११८-३१२३
तैरश्चं शारीरिकम् अस्वाध्यायम्
४१२६२ (A)
१. 'ध्यायिके-सं.॥
For Private And Personal Use Only