________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
x.
X.
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२६१ (B)
महाकाये मूषिकादौ मार्जारादिना हते मारिते अहोरात्रमष्टौ पौरुषीर्यावदस्वाध्यायः । अत्रैव मतान्तरमाह-अविभिन्ने इत्यादि, एके प्राहुः-यदि मार्जारादिना मूषिकादिरविभिन्न एव सन् मारितो मारयित्वा च गृहीत्वा अथवा गिलित्वा यदि ततः स्थानात् पलायते तदा पठन्ति साधवः सूत्रं, न कश्चिद्दोषः। अन्ये नेच्छन्ति, यतः कस्तं जानाति[विभिन्नो]अविभिन्नो वा मारित इति। अपरे पुनरेवमाहुर्यत्र मार्जारादिः स्वयं मृतोऽन्येन वा केनाप्यविभिन्न एव सन् मारितस्तत्र यावत् तत् कलेवरं न भिद्यते तावत्राऽस्वाध्यायिकम्, विभिन्न अस्वाध्यायिकमिति । तदेतदसमीचीनं यतश्चर्मादिभेदतः चतुर्विधमस्वाध्यायिकम् तस्मादविभिन्नेऽप्यस्वाध्याय एव ॥ ३११६ ॥
गाथा अंतो बहिं चि भिन्ने, अंडगबिंदू तहा वियायाए ।
३११२-३११७
तैरश्चं रायपहवूढसुद्धे, परवयणे साणमादीणि ॥ ३११७॥ [आ.नि.१३५४] || शारीरिकम्
अस्वाध्यायिकम् अन्तरुपाश्रयस्य मध्ये यदि वोपाश्रयाद् बहिः षष्टिहस्ताभ्यन्तरे अण्डके पतिते यदि |
१२६१ (B) तदण्डकमभिन्नमद्याप्यस्ति तदा तस्मिन्नुज्झिते स्वाध्यायः कल्पते। अथ पतितं सद् तदण्डकं
For Private And Personal Use Only