________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२६१ (A)
तदा तस्मिन् बहिधौते बहीराद्धे बहि:पक्के वा तत्राऽऽनीते शुद्धम्, अस्वाध्यायिकं न भवतीति भावः । अथवा यत् तत्र षष्टिहस्ताभ्यन्तरे पतितमस्वाध्यायिकं रुधिरं तेनाऽवकाशेन पानीयप्रवाह आगतस्तेन व्यूढं तदा पौरुषीत्रयमध्येऽपि शुद्धमस्वाध्यायिकमिति स्वाध्यायः कार्यः ॥ ३११४ ॥
अंतो पुण सट्ठीणं, धोयम्मी अवयवा तहिं होति । तो तिन्नि पोरिसीतो, परिहरियव्वा तहिं होंति॥ ३११५॥
[तुला-आ.नि.१३५२-३] यदि पुनः षष्टिहस्तानामभ्यन्तरे मांसं प्रक्षालयति तदा तस्मिन् धौते यतस्तत्र नियमादवयवाः पतिता भवन्ति ततस्तिस्त्रः पौरुष्यः स्वाध्यायमधिकृत्य तत्र परिहर्त्तव्या भवन्ति ॥ ३११५ ॥ 'अट्ठ वेति' यदुक्तं तदिदानीं भावयतिमहकायेऽहोरत्तं, मज्जारादीण मूसगादिहते । अविभिन्ने गिन्ने वा, पठंति एगे जइ पलाति ॥ ३११६॥
[तुला-आ.भाष्य २१८,नि.भा.६१०४]
गाथा ३११२-३११७
तैर,
शारीरिकम् अस्वाध्यायिकम्
१२६१ (A)
For Private And Personal Use Only