________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रम्
सप्तम
उद्देशकः
१२६० (B)
www. kobatirth.org
ग्रामस्तर्हि तस्मिन् तिसृभिः कुरथ्याभिरन्तरिते विकीर्णे पौगले स्वाध्यायः क्रियते । अथ नगरं तदा तत्र यस्यां राजा सबलवाहनो गच्छति देवयानं रथो वा विविधानि वा संवहनानि गच्छन्ति तया महत्याऽप्येकया रथ्यया अन्तरिते स्वाध्यायः कार्यः । अथ स ग्रामः समस्तोऽपि विकीर्णेन पौद्रलेनाकीर्णो विद्यते, न तिसृभिः कुरथ्याभिरन्तरितं तत् पौद्गलमवाप्यते तदा ग्रामस्य बहिः स्वाध्यायो विधेयः ॥ ३११३ ॥
गता क्षेत्रतो मार्गणा, सम्प्रति कालतो भावतश्च तामाह
काले तिपोरिसऽट्ठ व, भावे सुत्तं तु नंदिमादीयं । बहिधोय रद्ध पक्के, वूढे वा होति सुद्धं तु ॥ ३११४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तद् एकैकं जलजादिगतं चर्मादि कालतस्तिस्रः पौरुषीर्हन्ति । अट्ठ वेति, यत्र महाकायपञ्चेन्द्रियस्य मूषिकादेराहननं तत्राष्टौ पौरुषीर्यावत् स्वाध्यायविघातः । गता कालतोऽपि मार्गणा, भावत आह-भावे भावतो नन्द्यादिकं सूत्रं न पठन्ति । बहिधोएत्यादि, यदि षष्टिहस्तेभ्यः परतो बहिः प्रक्षाल्य मांसमानीतं यदि वा राद्धं स्थालीपाकेन, पक्वं वा शूलापाकेन
For Private And Personal Use Only
गाथा |३११२-३११७ तैरश्चं
शारीरिकम् अस्वाध्यायिकम्
१२६० (B)