________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् सप्तम
उद्देशकः १२६२ (B)
तिस्त्रः पौरुषीर्यावदस्वाध्यायः । अण्डकबिन्दोरस्वाध्यायिकस्य प्रमाणं यत्र मक्षिका पादा निमज्जन्ति, किमुक्तं भवति? यावन्मात्रे मक्षिकापादा बुडन्ति तावन्मात्रेऽप्यण्डकबिन्दौ भूमौ पतिते अस्वाध्यायः ॥ ३११८ ॥
अधुना 'वियाताए' इति व्याख्यानार्थमाहअजरायु तिन्नि पोरिसि, जराउयाणं जरे पडिए तिन्नि । निजंतुवस्स पुरतो, गलियं जति निग्गलं होज्जा ॥ ३११९॥
__ [आ.भाष्य २२०,नि.भा.६१०७] अजरायुः प्रसूता तिस्रः पौरुषी: स्वाध्यायं हन्ति, अहोरात्रछेदं मुक्त्वा। अहोरात्रे तु छिन्ने आसन्नायामपि प्रसूतायां कल्पते स्वाध्यायः, जरायुजानां यावज्जरायुः लम्बते तावदस्वाध्यायः, जरायौ पतिते सति तदनन्तरं तिस्त्र: पौरुषीर्यावदस्वाध्यायः। तथा उपाश्रयस्य पुरतो नीयमानं तदस्वाध्यायिकं गलितं भवति तदा पौरुषीत्रयं यावदस्वाध्यायः, यदि पुनर्निर्गलं भवेत् तदा तस्मिन्नीते स्वाध्यायः ॥ ३११९ ॥
'रायपहवूढ'इति व्याख्यानार्थमाह
गाथा ३११८-३१२३
तैरश्चं
| शारीरिकम् अस्वाध्यायम्
१२६२ (B)
For Private And Personal Use Only