________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
.
सप्तम उद्देशकः १२५९ (B)
अन्यस्या वसतेरभावो यदि ततो रात्रौ सागारिकाऽसंलोके वृषभास्तदनाथमृतकं विविञ्चन्ति अन्यत्र प्रक्षिपन्ति । अथ तत् कलेवरं श्वशृगालादिभिः समन्ततो विकीर्णं ततो विकीर्णे तस्मिन् समन्ततो निभालयन्ति यद् दृष्टं तत् सर्वमपि विविञ्चन्ति, इतरस्मिंस्तु प्रयत्ने कृतेऽप्यदृष्टे अशठा इति कृत्वा शुद्धाः स्वाध्यायं कुर्वन्तोऽपि न प्रायश्चित्तभागिन इति भावः ॥ ३११०॥
गतं व्युद्ग्रहजम्, इदानीं शारीरिकमाहसारीरं पि य दुविहं, माणुसतेरिच्छियं समासेणं । तिरिच्छं तत्थ तिहा, जलथलखहजं पुणो चउहा ॥ ३१११॥
गाथा
३१०७-३१११ [आ.व.नि.१३४८]
व्युद्ग्रहजम्
अस्वाध्यायिकम् शरीरे भवं शारीरं, तदपि समासेन सङ्क्षेपतो द्विविधं द्विप्रकारम्, तद्यथा-मानुषं तैरश्चं च। तत्र तैरश्चं त्रिधा-जलजं जलजमत्स्यादितिर्यग्भवम्, एवं गवादीनां स्थलजं खजं च |:१२५९ (B) मयूरादीनाम्। पुनरेकैकं चतुर्दा चतुष्प्रकारम् ॥ ३१११॥
For Private And Personal Use Only