________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम उद्देशकः
१२५९ (A)
गाँसम्भवात्, ततो न पठन्ति, शनैर्वा पठन्ति यथा न कोऽपि शृणोतीति, महिलारुदितशब्दोऽपि यावत् श्रूयते तावन्न पठन्ति ॥ ३१०८॥
हत्थसयमणाहम्मी, जइ सारियमादि तू विगिंचेजा । तो सुद्धं अविवित्ते, अन्नं वसहिं विमग्गंति ॥ ३१०९॥
कोऽप्यनाथो हस्तशताभ्यन्तरे मृतस्तस्मिन्ननाथे हस्तशताभ्यन्तरे कालगते स्वाध्यायो न क्रियते। तत्रेयं यतना-शय्यातरस्य अन्यस्य वा तथाविधस्य श्रावकस्य यथाभद्रकस्य वा वार्ता कथ्यते। यथा- 'स्वाध्यायान्तरायमस्माकमनाथमृतकेन कृतमस्ति, ततः सुन्दरं भवति यदीदं छद्यते।' एवमभ्यर्थितो यदि शय्यातरादिर्विगिञ्चयेत् परिष्ठापयेत् ततः शुद्धं भवतीति स्वाध्यायः कार्यः। अथ शय्यातरादिर्न कोऽपि परिष्ठापयितुमिच्छति तदा तस्मिन्ननाथमृतके अविविक्ते अपरिष्ठापिते अन्यां वसतिं मार्गयन्ति ॥ ३१०९ ॥
अण्णवसहीए असती, ताहे रत्तिं वसभा विगिंचिंति ।
विक्खिण्णे व समंता, जं दिटुं असढयरे सुद्धा ॥ ३११०॥ १. दिट्ठमसढे० ला.। दिटुं सढेयरे-आव. नि. १३४८, नि. भा. ६०९८ ॥
गाथा
३१०७-३१११
व्युद्ग्रहजम् अस्वाध्यायिकम्
१२५९ (A)
For Private And Personal Use Only