________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
*
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२५८ (B)
दण्डिके कालगते सति यावत् संक्षोभस्तावत् स्वाध्यायो न क्रियते, अन्यस्मिंस्तु राज्ञि स्थापितेऽहोरात्रातिक्रमेण क्रियते स्वास्थ्यभवनात्। तथा भोजिके ग्रामस्वामिनि, महत्तरके ग्रामप्रधाने, वाटकपतौ वसत्यनुगतवाटकैकस्वामिनि, तथा शय्यातरे आदिशब्दादन्यस्मिन् वा शय्यातरसम्बन्धिनि मानुषे कालगते तद्दिवसमस्वाध्यायः, एकमहोरात्रं यावत् स्वाध्यायपरिहार इत्यर्थः ॥ ३१०७॥
तथा
पगय-बहुपक्खिए वा, सत्तघरंतर मते व तद्दिवसं । निढुक्ख त्ति य गरिहा, न पढंति सणीयगं वावि ॥ ३१०८॥
गाथा ३१०७-३१११ व्युद्ग्रहजम्
अन्योऽपि यो नाम ग्रामे प्रकृतोऽधिकृतो महामनुष्यस्तस्मिन्, यदि वा बहुपाक्षिके बहुस्वजने कालगते, अन्यस्मिन् वा प्राकृते स्ववसत्यपेक्षया सप्तगृहाभ्यन्तरे कालगते तद्दिवसमेकमहोरात्रमस्वाध्यायः। किं कारणम्? अत आह-'निर्दुःखा अमी' इत्यप्रीत्या
७१२५८ (B)
For Private And Personal Use Only