________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२५८ (A)
सेनाधिपादिव्युद्ग्रहस्य तावदस्वाध्यायः । अत्र कारणमाह- गुज्झग उड्डाह अचियत्तं , गुह्यकाः कौतुकेन प्रेक्षमाणाः छलयेयुः । तथा बहुजनो 'निर्दुःखा एते' इति मन्यमानोऽप्रीत्या उड्डाहं कुर्यात्, लोकोपचारबाह्या एते इति । तथा दण्डिके कालगते अण्णयराए यत्ति यावदन्यो राजा नाभिषिक्तो भवति तावत् प्रजानां महान् सक्षोभो भवति, तस्मिन् संक्षोभे सति स्वाध्यायो न कल्पते । किमुक्तं भवति? यावत् संक्षोभस्तावदस्वाध्यायः। अत्रापि पूर्वोक्ता दोषाः। सभयं म्लेच्छादिभयाकुलं तस्मिन्नपि स्वाध्यायो न कर्त्तव्यः । एतेषु सर्वेषु व्युद्ग्रहादिषु अस्वाध्यायावधिमाह-जच्चिरनिद्दोच्चऽहोरत्तं व्युद्ग्रहादिषु यच्चिरं यावन्तं कालमनिद्दोच्चा मिति अनिर्भयमस्वास्थ्यमित्यर्थः, तावन्तं कालमस्वाध्यायः । स्वस्थीभवनानन्तरमप्येकमहोरात्रं परिहृत्य स्वाध्यायः कर्त्तव्यः। उक्तं च निद्दोसीभूते वि अहोरत्तमेगं परिहरित्ता सज्झातो कीरइ इह ॥ ३१०६ ॥
'संखोभे दंडियए य कालगए' इत्यनेनान्यदपि सूचितमस्ति, ततस्तदभिधित्सुः 'संखोभे दंडीए य कालगए' इत्येतदपि व्याख्यानयति
दंडिए कालगयम्मी, जा संखोभो न कीरते ताव । तद्दिवस भोइमहत्तर, वाडगपति सेज्जयरमादी ॥ ३१०७॥
गाथा ४३१०७-३१११
व्युग्रहजम् अस्वाध्यायिकम्
१२५८ (A)
For Private And Personal Use Only