________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम उद्देशकः
१२५६ (B)|
परिहियते। चन्द्रे तु तस्यामेव रात्रौ मुक्ते यावदपरश्चन्द्रो नोदेति तावदस्वाध्याय इति, सैव रात्रिरपरं च दिनमित्येवमहोरात्रमस्वाध्यायः । अन्ये पुनराहुः-आचीर्णमिदं चन्द्रो रात्रौ गृहीतो रात्रावेव मुक्तस्तस्या एव रात्रेः शेषं वर्जनीयं, यस्मादागामिसूर्योदये समाप्तिरहोरात्रस्य जाता सूर्योऽपि यदि दिवा गृहीतो दिवैव मुक्तस्ततस्तस्यैव दिवसस्य शेषं रात्रिश्च वर्जनीया इति । तथा निर्घातगुञ्जितयोः प्रत्येकं यस्यां वेलायां निर्घातो गुञ्जितं वाऽधिकृते दिनेऽभवत् द्वितीयेऽपि दिने यावत् सैव वेला प्राप्ता भवति तावदस्वाध्याय एव तयोरप्यस्वाध्यायस्याहोरात्रप्रमाणत्वात्। उक्तं च'निग्घातो गुंजियं च लोकप्रतीता एए अहोरत्तं उवहणंति' ति ॥ ३१०२ ॥ तथा
गाथा चउ संझासु न कीरइ, पाडिवएसु तहेव चउसुं ।
३१०३-३१०६ जो जत्थ पुज्जती तू, सव्वहिं सुगिम्हतो नियमा॥ ३१०४॥
सदेव
व्युद्ग्रहजाऽचतस्त्रः सन्ध्यास्तिस्रो रात्रौ, तद्यथा-प्रस्थिते (अस्तमिते) सूर्ये, अर्द्धरात्रे, प्रभाते च। || स्वाध्यायिके चतुर्थी दिवसस्य मध्यभागे। एतासु चतसृष्वपि स्वाध्यायो न क्रियते, शेषक्रियाणां तु
१२५६ (B) प्रतिलेखनादीनां न प्रतिषेधः, स्वाध्यायकरणे चाऽऽज्ञाभङ्गादयो दोषाः । तथा चतस्रः प्रतिपदः, ।
For Private And Personal Use Only