SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२५५ (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूं जहण्ण बारस, उक्कोसं पोरिसी उ सोलस उ । सग्गह निब्बुड्ड एवं, सूरादी जेणऽहोरत्ता ॥ ३१०२॥ चन्द्रोपरागे सूर्योपरागे च तद्दिनापगमे इति वाक्यशेषः । तथा साभ्रे निरभ्रे वा नभसि व्यन्तरकृतो महागर्जितसमो ध्वनिर्निर्घातः, गर्जितस्येव विकारो गुञ्जावत् गुञ्जमानो महाध्वनिर्गुञ्जितं तस्मिन् निर्घाते गुञ्जिते च प्रत्येकमहोरात्रं यावत् स्वाध्यायपरिहारः। तत्र जघन्यत उत्कर्षतश्च चन्द्रोपरागं सूर्योपरागं चाधिकृत्य स्वाध्यायविघातकालमानमाह - चन्द्रो * जघन्येनाष्टौ पौरुषीर्हन्ति उत्कर्षतः पौरुषीद्विषट्कं द्वादश पौरुषीरित्यर्थः । कथमिति चेद् उच्यते - उद्गच्छन् चन्द्रमा राहूणा गृहीतस्ततश्चतस्रः पौरुषी रात्रेर्हन्ति चतस्र आगामिनो दिवसस्य एवमष्टौ । द्वादश पुनरेवं प्रभातकाले चन्द्रमाः सग्रह एवास्तमुपगतः, ततः स चतस्रः पौरुषीदिवसस्य हन्ति चतस्र आगमिन्या रात्रेश्चतस्रो द्वितीयस्य दिवसस्य । अथवा औत्पातिकग्रहणेन सर्वरात्रिकं ग्रहणं जातं, सग्रह एव निमग्नस्ततः सन्दूषितरात्रेश्चतस्रः दिग्हादिपौरुषीरन्यच्चाहोरात्रम् । अथवा अभ्रच्छन्नतया विशेषपरिज्ञानाभावाच्च न ज्ञातं कस्यां वेलायां ग्रहणं, प्रभाते च सग्रहो निमज्जन् दृष्टः, ततः समग्रा रात्रिः परिहृता, अन्यच्चाहोरात्रमिति १. तुला आव. नि१३४२-३, नि.भा.६०९२-३ ॥ गाथा |३०९७-३१०२ स्वरूपम् For Private And Personal Use Only ******* १२५५ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy