________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
सप्तम
उद्देशकः १२५५ (A)
अत्रैव मतान्तरमाहकेसिं चि होतऽमोहा, जूवतो ते उ होति आइण्णा । जेसिं तु अणाइन्ना, तेसिं खलु पोरिसी दोन्नि ॥ ३१००॥
केषाञ्चिदाचार्याणां मतेन च भवन्ति शुक्लपक्षे प्रतिपदादिषु त्रिषु दिवसेष्वमोघा शुभाशुभसूचननिमित्ताऽवितथोत्पादा आदित्यकिरणविकारजनिता आदित्यस्योदयसमये अस्तमयसमये वा आताम्राः कृष्णश्यामा वा यूपक इति ते च भवन्ति वर्तन्ते आचीर्णा नैतेषु स्वाध्यायः परिहियते इत्यर्थः । येषां तु आचार्याणामनाचीर्णास्तेषां मतेन यूपको द्वे पौरुष्यौ हन्ति ॥ ३१००॥
न केवलममूनि सदेवानि किन्त्वमून्यपि, तान्येवाहचंदिमसूरुवरागा, निग्घाए गुंजिते अहोरत्तं ।
चंदो जहण्णेणऽट्ठ उ, उक्कोसं पोरिसि बिछक्कं ॥ ३१०१॥ १. सूरवरागे-इति आव. नि. १३३७॥
गाथा ३०९७-३१०२ दिग्हादिस्वरूपम्
१२५५ (A)
For Private And Personal Use Only