________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२५४ (B)
शेषकाणि दिग्दाहादीनि भक्तानि विकल्पितानि, कदाचित् स्वाभाविकानि भवन्ति, कदाचित् देवकृतानि, तत्र स्वाभाविकेषु स्वाध्यायो न परिहियते किन्तु देवकृतेषु, परं येन कारणेन स्फुटं वैविक्त्येन तानि न ज्ञायन्ते तेन तेषामविशेषेण परिहारः ॥ ३०९८ ॥
सम्प्रति दिग्दाहादिव्याख्यानमाहदिसिदाह छिन्नमूलो, उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणा, उ जूवतो सुक्क दिण तिन्नि ॥ ३०९९ ॥
दिशि पूर्वादिकायां छिन्नमूलो दाहः प्रज्वलनं दिग्दाहः। किमुक्तं भवति? अन्यतमस्यां दिशि महानगरप्रदीप्तमिवोपरि प्रकाशोऽधस्तादन्धकार इति दिग्दाहः। उल्का पृष्ठतः सरेखा | प्रकाशयुक्ता वा। यूपको नाम शुक्ले शुक्लपक्षे त्रीणि दिनानि यावत् द्वितीयस्यां तृतीयस्यां |३०९७-३१०२ चतुर्थ्यां चेत्यर्थः। सन्ध्याछेदः सन्ध्याविभागः स आवियते येन स सन्ध्याछेदावरणश्चन्द्रः ।
दिग्हादि
स्वरूपम् इयमत्र भावना-शुक्लपक्षे द्वितीया-तृतीया-चतुर्थीरूपेषु त्रिषु दिनेषु सन्ध्यागतश्चन्द्र इति कृत्वा सन्ध्या न विभाव्यते, ततस्तानि शुक्लपक्षे त्रीणि दिनानि यावत् चन्द्रः सन्ध्याछेदावरणः स
१२५४ (B) यूपक इति एतेषु दिवसेषु प्रादोषिकी पौरुषी नास्ति सन्ध्याछेदाऽविभावनादिति ॥ ३०९९।।
गाथा
For Private And Personal Use Only